
Music: Ajay Atul
Singers: S P Balsubramanyam
Label – Times Music Spiritual
Join Our WhatsApp Channel to get the Realtime updates. - Join Now
Amazon GREAT INDIAN SHOPPING FESTIVAL 2024
Samsung 43 Inch LED 4K TV @ Rs. 21599- https://amzn.to/3XDDfoA
Limited Deal: Android LED TV @ Rs. 7999 - https://amzn.to/4dpTTxA
Pranamya Shirsa Devam Lyrics
== श्री गणपतिस्तोत्रम् ==
=== ।। श्री गणेशायनमः ।। ===
==== ।।नारद उवाच ।। ====
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।1।।
प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।। 2।।
लंबोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्न राजेन्द्रं धूम्रवर्णं तथाष्टमम्।। 3।।
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।। 4।।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिध्दिकरं प्रभो।। 5।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।। 6।।
जपेत् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिध्दिं च लभते नात्र संशयः।। 7।।
अष्टभ्यो ब्राम्हाणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।। 8।।
इति श्री नारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम्।।